shankar kavacham

श्रीशङ्करकवचम्

ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् ।
आधारं सर्वभूतानामनाधारमविक्रियम् ॥ १॥

अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् ।
अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥ २॥

एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः ।
वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥ ३॥

ततः स भगवान् प्रीतः पूजां चक्रे यथाविधि ।
तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥ ४॥

तैः पृष्टः कथयामास कुमारप्रभवं च यत् ।
चरितं भूमिभारघ्नं लोकानन्दकरं परम् ॥ ५॥

मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः ।
कृष्णः स्नानमथो चक्रे मृदक्षतकुशादिभिः ॥ ६॥

सूर्योपस्थानसन्ध्यां च स्मृतिधर्ममनुस्मरन् ।
शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः ॥ ७॥

चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् ।
जय शङ्कर सोमेश रक्ष रक्षेति चाब्रवीत् ॥ ८॥

जजाप शिवसाहस्रं भक्तिमुक्तिप्रदं विभोः ।
अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥ ९॥

ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितम् ।
मार्कण्डेयोऽवदत् कृष्णं बहुशो मुनिसम्मितम् ॥ १०॥

मार्कण्डेयः –
त्वं कृष्ण कमलाकान्तः परमात्मा जगद्गुरुः ।
भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥ ११॥

श्रीकृष्ण उवाच –
साधु साधु मुने पृष्टं हिताय सकलस्य च ।
अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् ॥ १२॥

दैवतं सर्वलोकानां सर्वकारणकारणम् ।
ज्योतिर्यत्परमानन्दं सावधानमतिः श‍ृणु ॥ १३॥

विश्वसाधनमीशानं गुणातीतमजं परम् ।
जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने ॥ १४॥

यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः ।
स शिवः स महादेवः शङ्करश्च निरञ्जनः ॥ १५॥

तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते ।
सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः ॥ १६॥

पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वर ।
तस्मिन् भक्तिर्महादेवे मम धातुश्च निर्मल ॥ १७॥

महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः ।
सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः ॥ १८॥

निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः ।
निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः ॥ १९॥

तस्य चेच्छाभवत् पूर्वं जगत्स्थित्यन्तकारिणी ।
वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतिः ॥ २०॥

जनयामास धातारं दक्षिणाङ्गात् सदाशिवः ।
मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः ॥ २१॥

तपस्तपन्तु भो वत्सा अब्रवीदिति तान् शिवः ।

स्तुत्वा तु विधिवत् स्तोत्रैः प्रणम्य च पुनः पुनः ।
ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः ॥ २२॥

ब्रह्मविष्णुरुद्रा ऊचुः –
तपः केन प्रकारेण कर्तव्यं परमेश्वर ।
ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ २३॥

महादेव उवाच –
कायेन मनसा वाचा ध्यानपूजाजपादिभिः ।
कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ २४॥

देवा ऊचुः –
त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः ।
सौम्योपायमथो ब्रह्मन् वद कारुण्यवारिधे ॥ २५॥

शङ्कर उवाच –
श‍ृणुध्वं सर्वपापघ्नं भुक्तिमुक्तिप्रदं नृणाम् ।
सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः ॥ २६॥

यया संसारमग्नानां मुक्तिर्भवति शाश्वती ।
श‍ृण्वन्तु तद्विधानं तु महापातकनाशनम् ॥ २७॥

पठतां श‍ृण्वतां सद्यो मुक्तिः स्यादनपायिनी ।
ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ २८॥

भस्मधारी मुनिर्मौनी पद्मासनसमन्वितः ।
ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ २९॥

पार्वतीसहितं शम्भुं जटामकुटमण्डितम् ।
वसानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ ३०॥

त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् ।
सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ ३१॥

बिभ्राणं सुप्रसन्नं च कुठारवरदाभयम् ।
दुरन्तं कमलासीनं नागयज्ञोपवीतिनम् ॥ ३२॥

विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् ।
सहस्रशिरसं शम्भुमनन्तकरसंयुतम् ॥ ३३॥

सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् ।
जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ ३४॥

दंष्ट्राकरालं दुष्प्रेक्षं सूर्यकोटिसमप्रभम् ।
निशाकरकराकारं भेषजं भवरोगिणाम् ॥ ३५॥

पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ३६॥

ज्ञानवैराग्यसम्पन्नं नित्यानन्दमयं परम् ।
शाश्वतैश्वर्यसम्पूर्णं महायोगीश्वरेश्वरम् ॥ ३७॥

समस्तशक्तिसम्पन्नं पुण्यकायं दुरासदम् ।
तारकं ब्रह्म सम्पूर्णमणीयांसं महत्तरम् ॥ ३८॥

यतीनां परमं ब्रह्म यतीनां तपसः फलम् ।
संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ ३९॥

विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् ।
महादेवं महानन्दं देवानामपि दैवतम् ॥ ४०॥

शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिरुत्तमम् ।
शङ्करो मे शिरः पातु ललाटं भाललोचनः ॥ ४१॥

विश्वचक्षुर्दृशौ पातु रुद्रः पातु भ्रुवौ मम ।
गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः ॥ ४२॥

कपोलौ मे महादेवः पातु नासां सदाशिवः ।
मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः ॥ ४३॥

दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः ।
रसनां परमानन्दः पातु शङ्खौ शिवाप्रियः ॥ ४४॥

चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशनः ।
कुचं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् ॥ ४५॥

स्कन्धौ स्कन्दपतिः पातु बाहू पातु महाभुजः ।
उपबाहू महावीर्यः करौ विबुधसत्तमः ॥ ४६॥

अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् ।
हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः ॥ ४५॥

उदरं हुतभुक् पातु मध्यं मे मध्यमेश्वरः ।
कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः ॥ ४८॥

प्राणान् मे प्राणदः पातु नाभिं भीमः कटिं विभुः ।
सक्थिनी पातु मे भर्गो जानुनी जनताधिपः ॥ ४९॥

जङ्घे पुररिपुः पातु चरणौ भवनाशनः ।
शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः ॥ ५०॥

इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः ।
पूर्वे दिशि मृडः पातु दक्षिणे यमसूदनः ॥ ५१॥

वारुण्यां सलिलाधीश उदीच्यां मे महीधरः ।
ऐशान्यां पातु भूतेश आग्नेय्यां रविलोचनः ॥ ५२॥

नैरृत्यां भूतभृत् पातु वायव्यां बलवर्धनः ।
ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः ॥ ५३॥

सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः ।
एवं न्यासादिकं कृत्वा साक्षाच्छम्भुमयो भवेत् ॥ ५४॥

नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तिमान् ।
सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् ॥ ५५॥

॥ इति श्रीशङ्करकवचं सम्पूर्णम् ॥

kalika kavach

kalika kavach

कालिका कवच | kalika kavach विनियोगॐ अस्य श्री कालिका कवचस्य भैरव ऋषिः,अनुष्टुप छन्दः, श्री कालिका…

Read More
namami shamishan

Shree Panchakshar Strotram

॥ श्री शिव पञ्चाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनाय ,भस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बराय,तस्मै न काराय…

Read More
shankar kavacham

Shiv Stuti Hindi

Shiv Stuti Hindi | भगवान शिव स्तुति आशुतोष शशांक शेखर,चन्द्र मौली चिदंबरा,कोटि कोटि प्रणाम शम्भू,कोटि…

Read More
shiva chalisa

Shiv Chalisa in Hindi

शिव चालीसा | Shiv Chalisa in Hindi ॥ दोहा ॥ श्री गणेश गिरिजा सुवन ,…

Read More
shani chalisa

Shani Chalisa in Hindi

Shree Shani Chalisa in Hindi | श्री शनि चालीसा दोहाजय-जय श्री शनिदेव प्रभु, सुनहु विनय महराज।करहुं…

Read More

Leave a Comment

Your email address will not be published. Required fields are marked *