vishvanAthAShTakam
विश्वनाथाष्टकम् गङ्गातरंगरमणीयजटाकलापंगौरीनिरन्तरविभूषितवामभागम् ।नारायणप्रियमनंगमदापहारंवाराणसीपुरपतिं भज विश्वनाथम् ॥ १॥ वाचामगोचरमनेकगुणस्वरूपंवागीशविष्णुसुरसेवितपादपीठम् ।वामेनविग्रहवरेणकलत्रवन्तंवाराणसीपुरपतिं भज विश्वनाथम् ॥ २॥ भूताधिपं भुजगभूषणभूषितांगंव्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।पाशांकुशाभयवरप्रदशूलपाणिंवाराणसीपुरपतिं भज विश्वनाथम् ॥ ३॥ शीतांशुशोभितकिरीटविराजमानंभालेक्षणानलविशोषितपंचबाणम् ।नागाधिपारचितभासुरकर्णपूरंवाराणसीपुरपतिं भज विश्वनाथम् ॥ ४॥ पंचाननं दुरितमत्तमतङ्गजानांनागान्तकं दनुजपुंगवपन्नगानाम् ।दावानलं मरणशोकजराटवीनांवाराणसीपुरपतिं भज विश्वनाथम् ॥ ५॥ तेजोमयं सगुणनिर्गुणमद्वितीयंआनन्दकन्दमपराजितमप्रमेयम् ।नागात्मकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं भज विश्वनाथम् ॥ ६॥ रागादिदोषरहितं स्वजनानुरागंवैराग्यशान्तिनिलयं गिरिजासहायम् ।माधुर्यधैर्यसुभगं गरलाभिरामंवाराणसीपुरपतिं भज विश्वनाथम् ॥ ७॥ आशां […]
vishvanAthAShTakam Read More »





